।। बाल संस्कार ।।
अपने बच्चों को निम्नलिखित श्लोकों को नित्य दैनन्दिनी में शामिल करने हेतु संस्कार दे एवं खुद भी पढ़ें ।
* प्रातः कर-दर्शनम् *
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥
* पृथ्वी क्षमा प्रार्थना *
समुद्रवसने देवि पर्वतस्तनमंडिते ।विष्णु पत्नि नमस्तुभ्यं पाद स्पर्शं क्षमस्व मे ॥
* त्रिदेवों के साथ नवग्रहों स्मरण *
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च ।गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम् ॥
* स्नान मन्त्र *
गंगे च यमुने चैव गोदावरी सरस्वती।
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
*सूर्य नमस्कार*
ॐ सूर्य आत्मा जगतस्तस्थुषश्च ।।
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम् ।सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम् ॥
ॐ मित्राय नम:
ॐ रवये नम:
ॐ सूर्याय नम:
ॐ भानवे नम:
ॐ खगाय नम:
ॐ पूष्णे नम:
ॐ हिरण्यगर्भाय नम:
ॐ मरीचये नम:
ॐ आदित्याय नम:
ॐ सवित्रे नम:
ॐ अर्काय नम:
ॐ भास्कराय नम:
ॐ श्री सवितृ सूर्यनारायणाय नम:
आदिदेव नमस्तुभ्यं प्रसीदमम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
* दीप दर्शन *
शुभं करोतु कल्याणम् आरोग्यम् धनसंपदा ।शत्रुबुद्धिविनाशाय दीपकाय नमोऽस्तु ते ॥
दीपो ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते ॥
*गणपति स्तोत्र*
गणपति: विघ्नराजो लम्बतुन्ड़ो गजानन: ।
द्वै मातुरश्च हेरम्ब एकदंतो गणाधिप: ॥विनायक: चारुकर्ण: पशुपालो भवात्मज: ।
द्वादशैतानि नामानि प्रातरुत्थाय य: पठेत् ॥
विश्वं तस्य भवेद् वश्यं न च विघ्नं भवेत् क्वचित् ।
विघ्नेश्वराय वरदाय सुरप्रियाय ।
लम्बोदराय विकटाय गजाननाय ॥
नागाननाय श्रुतियज्ञविभूषिताय ।
गौरीसुताय गणनाथ नमो नमस्ते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
*आदिशक्ति वन्दना *
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥*शिव स्तुति*
कर्पूर गौरं करुणावतारं,
संसार सारं भुजगेन्द्रहारं ।
सदा वसंतं हृदयारविन्दे,
भवं भवानी सहितं नमामि ॥
*विष्णु स्तुति*
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
* श्री कृष्ण स्तुति *
कस्तूरी तिलकं ललाटपटले, वक्षस्थले कौस्तुभं ।
नासाग्रे वरमौक्तिकं करतले, वेणु करे कंकणम् ॥
सर्वांगे हरिचन्दनं सुललितं, कंठे च मुक्तावलि ।
गोपस्त्री परिवेष्टितो विजयते, गोपाल चूडामणी ॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥
* श्री राम वंदना *
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् ।कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥
* एक श्लोकी रामायण *
आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम् ।वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम् ॥
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम् ।
पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम् ॥
* सरस्वती वंदना *
या कुन्देन्दुतुषारहारधवला
या शुभ्रवस्त्रावृता ।
या वींणावरदण्डमण्डितकरा
या श्वेतपदमासना ॥
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता ।सा माम पातु सरस्वती भगवती
निःशेषजाड्याऽपहा ॥
* हनुमन्तं वंदना *
अतुलितबलधामं हेमशैलाभदेहम् ।दनुजवनकृषानुम् ज्ञानिनांग्रगणयम् ।
सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि॥
मनोजवं मारुततुल्यवेगम जितेन्द्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये ॥
* स्वस्ति~वाचन *
ॐ स्वस्ति न इंद्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्ट्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥
* शांति पाठ *
ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: ।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि ॥
॥ॐ शान्ति शान्ति शान्ति:॥
🚩🚩🚩🚩 🇮🇳 🚩🚩🚩🚩
🙏* मातृभूमि प्रार्थना *🙏
नमस्ते सदा वत्सले मातृभूमे,
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे,
पतत्वेष कायो नमस्ते नमस्ते
।।१।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता,
इमे सादरं त्वां नमामो वयम् ।
त्वदीयाय कार्याय बध्दा कटीयं,
शुभामाशिषं देहि तत्पूर्तये ।।
अजय्यां च विश्वस्य देहीश शक्तिं,
सुशीलं जगद्येन नम्रं भवेत् ।
श्रुतं चैव यत्कण्टकाकीर्ण मार्गं,
स्वयं स्वीकृतं नः सुगं कारयेत्
।।२।।
समुत्कर्षनिःश्रेयसस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्रानिशम् ।
विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् ।
परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम्
।।३।।
भारत माता की जय
" वन्देमातरम् "
गोविन्द दर्जी सागवाड़ा...✍
℡• 7665057775
℡• 7665057775
2 टिप्पणियां:
Brahma Yantra helps promote creative power and leadership.
jai siya ram
एक टिप्पणी भेजें